।। नागराजविरचितं काश्मीरवैभवम् ।।
March 4th, 2012 § Leave a Comment
श्रीचक्रोपरिसंस्थितां सुरनुतां श्रीराजराजेश्वरीं
श्रीविद्याजननीं शिवां त्रिनयनां कारुण्यवारांनिधिम् ।
श्रीकाश्मीरपुराधिवासनिरतां श्रीकण्ठचेतोहरां
श्रीवाणीपरिसेवितां पुरहरां वन्दे महादेवताम् ।। 1 ।।
सुमंगलाभालविभूषणांका विभाति रेखेव सुकुंकुमस्य ।
काश्मीरभूः कुंकुमजन्मभूमिर्दिश्युत्तरस्यां भारताख्यखण्डे ।। 2 ।।
अनादिकालादपि कश्यपस्य कृपेव या भाति हिमालयाग्रे ।
गीर्वाणवाणीकवितामयी सा काश्मीरभूमिर्जयति प्रशस्ता ।। 3 ।।
यत्र द्राक्षा मधुरमधुरं दिव्यधारां प्रसूते
नेत्रानन्दं विदधति तथा कुंकुमं केसराश्च ।।
शैवाद्वैतं हृदयसुखमाप्यातनोति प्रभूतं
काश्मीरास्ते भरतवसुधाभूषणानीव भान्ति ।। 4 ।।
यत्र स्त्रीणां लसति मधुरा चारुगीर्वाणवाणी
वाणी साक्षान्निवसति मनोहारिणी सर्वशक्तिः ।
शक्तेस्तत्त्वं भुवनविदितं द्योतते नव्यभासा-
भासाख्यो वा जयति जनताचिद्विकासोऽभिवादः ।।5 ।।
द्राक्षाकुंकुमकेसरैर्विलसिता विद्वदजनप्रेयसी
शैवाद्वैतसुधाभिवृष्टिविकसद् ज्ञानांकुरोल्लासिनी ।
वाणीपीठविजृम्भिता जनमनश्शान्तिप्रदा निर्मला
काश्मीराख्यमहामही विजयते सौन्दर्यशोभान्विता ।। 6 ।।
मुनिरभिनवगुप्तो बिल्हणः कल्हणश्च
ध्वनिरसगुणतो ये काव्भेदान्वितेनुः ।
सरसकविवरेण्यः क्षेमपूर्वेन्द्रनामा
धवलतमयशस्काः सन्ति काश्मीरकास्ते ।। 7 ।।
निखिलकविसमूहो रम्यकाश्मीरजातः
रुचिरतमवचोभिः संस्कृतैः काव्यवृद्धिम् ।
अभिनवतररीत्या संविधाय प्रशस्तिं
निरुपमनिरवद्यां प्राप्तवान्पूर्णमत्र ।। 8 ।।
रसभरितफलानां जन्मभूमिः प्रभूतं
रससहितकृतीनां सृष्टिकर्त्री शतानाम् ।
रसिकजनसुखानां मूलहेतुर्बहूनां
सरससरसिजातानां भाति काश्मीरभूमिः ।। 9 ।।
काश्मीरजातकवितारसबिन्दुसिक्तं
गीर्वाणवाङ्मयमतीवं चमत्कृतं हि ।
बुद्धेर्विकासममलं सुखमात्मनश्च
केषां ददाति न वरं सकृदप्यधीतम् ।। 10 ।।
न भारतसमः खण्डो न संस्कृतसमं वचः ।
न काश्मीरसमो देशो न तत्काव्यसमं भुविः ।। 11 ।।
यत्कारुण्यलवैनैव जगदुन्मीलति क्षणात् ।
तां वन्दे शारदां देवीं काश्मीरपुरवासिनीम् ।। 12 ।।